गुरुचिन्तनम्


 

गुरुरेव गतिर्गुरुमेव भजे

गुरुणैव सहास्मि नमो गुरवे ।

न गुरोः परमं शिशुरस्मि गुरोः

मतिरस्तु गुरौ मम पाहि गुरो ॥

 

अस्माकम् सनातनधर्मे गुरूणां महत्त्वं स्थानं विद्यते। गु – नाम अन्धकारः, रु – नाम नाशकः। अज्ञानरूपम् अन्धकारं नाशयित्वा ज्ञानरूपेण यः प्रकाशं ददाति सः गुरुः भवति। गुरवे कृतज्ञतां सूचयितुं, गुरुपूजां कर्तुम् आषाढपूर्णिमायां सनातनधर्मिष्ठाः गुरुपूर्णिमाम् आचरन्ति। अस्मिन् दिने व्यासमहर्षिः जन्म लब्धवान्। अपि च, अस्मिन्नेव दिने ब्रह्मसूत्राणां रचनां कृतवान् इति प्रतीतिः अस्ति। अतः व्यासपूर्णिमा इत्यपि आचर्यते इदं दिनम्।  

 

एषः व्यासः कः? व्यासशब्दस्य अर्थः, व्युत्पत्तिः का? व्यस्यते इति व्यासः इति व्युत्पत्तिः, नाम विभागकारः इति। व्यासः इति एका पदवी, उपाधिः, इति पुराणानि कथयन्ति। प्रत्येकस्मिन् महायुगे एकः व्यासः भवति। सप्तविंशतिव्यासाः सन्ति। ते च नामतः :- स्वयम्भुः, प्रजापतिः, उशनः, बृहस्पतिः, सवितृ, मृत्युः, मघवः, वसिष्ठः, सारस्वतः, त्रिधामः, त्रिवृषः, भारद्वाजः, अन्तरिज्ञः, धर्मः, त्रय्यारुणः, मेधातिथिः, व्रतिः, अत्रिः, गौतमः, उत्तमः, वेनवाजस्रजाक्षः सोमन्यूषायणः, तृणबिन्दुः, भार्गवः, शकतिः, जातुकर्ण्यः – च। अस्मिन् कल्पे पराशरसत्यवत्योः आत्मजः कृष्णद्वैपायनः व्यासः अस्ति। तस्य विषये इदानीं जानीमः। 

 

कृष्णद्वैपयनः वेदान् स्वरूपानुगुणं विभागं कृत्वा वेदव्यासः अभूत्। परन्तु एतं विष्णुरूपम् कथयित्वा, गरुतरः गुरुः इति किमर्थं पूजयन्ति? वेदविभागकरणेन आरब्धः अस्य व्यासस्य महायज्ञः, तत्रैव न स्थगितः। किन्तु लोकहिताय अनेकधा हुतं खलु? सः एव यज्ञः तम् अद्वितीयमकरोत्। चतुर्णामपि वेदानां सारं सङ्गृह्य, पञ्चवेदनाम्ना प्रसिद्धं लक्षश्लोकान्वितम् भगवद्गीतान्वितं महाभारतं रचयामास। महाभारतेन सह, ब्रह्मसूत्राणि, अष्टादशपुराणानि च एषः लोकोद्धरणाय, वेदोक्तस्य मोक्षमार्गस्य सुलभप्राप्त्यर्थम्, अस्मत्सदृशपामरेभ्यः रचितवान् अस्ति। परन्तु व्यासस्य महिमावर्णनार्थं महाभारतम् एव अलम्। गात्रेपि, गुणेपि ईदृशः ग्रन्थः नास्त्येव।

 

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥

 

इति तु सत्यमेव उक्तम्।

 

ब्रह्मज्ञानार्थं मार्गदर्शकाणि ब्रह्मसूत्राणि तु वेदान्तस्यैव मूलम् इव अस्ति। अष्टादशपुराणानि, उपपुराणानि च कथारूपेण सुलभतया ज्ञातुं शक्यते। अतः एव खलु "व्यसोच्छिष्टं जगत्सर्वम्" इति उच्यते। एवं पण्डितपामरादिसम्पूर्णमनुकुलस्य बुद्धिभावस्पर्शी व्यासः। ज्ञानकारुण्यादि कल्याणगुणैः व्यासः अत्यन्तं महत्वं लभते। अतः तं " गुरुः" इत्युपाधिना सम्बोधयामः। ज्ञानविचारे ज्ञानदानविचारे, कृष्णद्वैपायनसमः अन्यः कोपि नास्त्यैव। अतः सः गुरूणां गुरुरेव।

 

श्रीवेदव्यास नमो भूवियदाद्यन्तदर्शी कविसूर्य नमो।

जीवितसारज्ञ नमो भावितविश्वप्रजा भविष्यार्थ नमो॥

 

व्यासादि गुरुपरम्परां मनसि धृत्वा गुरूक्तमार्गे गमनमेव अस्माकं जीवनलक्ष्यं भवेत्।

 

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

 

 

 श्री शोभकृत् आषाढ शुक्ल पूर्णिमा