संस्कृते विज्ञानम्

 

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ॥

 

संस्कृतम् इत्युक्ते किम्? सम्यक् कृतम् इति संस्कृतम् इति व्युत्पत्तिः। अस्याः भाषायाः रचना एव वैज्ञानिकी। सर्वेषामपि अतिबृहत् कल्पना यत् संस्कृतं केवलं देवालयेषु वा धार्मिकसमारम्भेषु वा उपयुञ्ज्यमाना धार्मिकभाषा इति। परन्तु वास्तवेन संस्कृते धार्मिकविद्या केवलं पञ्चप्रतिशतं विद्यते। शिष्टं पञ्चनवतिप्रतिशतं किम् अस्ति? गणितं, विज्ञानं , समाजशास्त्रं, देहविज्ञानम्, आयुर्वेदः, रसायनशास्त्रं, लौहशास्त्रं, सस्यशास्त्रं, नाट्यशास्त्रं, शिल्पशास्त्रं, खगोलशास्त्रं, सर्वं संस्कृते लीनम् अस्ति। अतः संस्कृतं विहाय अस्माकं विज्ञानस्य इतिहासं ज्ञातुं नैव शक्नुमः। वेदकाले श्रुतिपरम्परया यत् संस्कृतं पाठितं तत् सर्वं कालान्तरे पाणिनिना समीकृत्य अत्यन्तवैज्ञानिकरीत्या रूपयितम्। अतः विज्ञानं, गणितम् अत्यन्तं तार्किकरीत्या, निर्धारितरीत्या अभिव्यक्तिं कर्तुम् अशक्नोत्।

 

आङ्ग्लभाषायां इदानीम् A to Z अक्षरेषु किमपि वैज्ञानकं वा तार्किकं वा नास्ति। किमर्थम् एवम् अस्ति कोपि न जानाति। किन्तु संस्कृते पाणिनिः प्रथमेषु चतुर्दशसु सूत्रेषु स्वरोत्पत्यनुगुणं स्वराणां विभागं कृतवान् अस्ति। 

 

“अकुह विसर्जनीयानां कण्ठः। 

इचु यशानां तालु।

ऋटु रषाणां मूर्धा।

ऌतु लसानां दन्ताः।

उपूपध्मानीयानामोष्ठौ।

ञमङणनानां नासिका च।

एदैतोः कण्ठतालु।

ओदौतोः कण्ठोष्ठम्।

वकारस्य दन्तोष्ठम्।

जिह्वामूलीयस्य जिह्वामूलम्। 

नासिकानुस्वारस्य।”

 

अस्माकं पूर्वजाः कियत् वैज्ञानकचिन्तकाः आसन् इति अनेनैव उदाहरणेन स्पष्टीभवति। एतादृशी वैज्ञानिकी भाषा अस्मिन् भूमण्डले अन्या कापि भाषा नास्ति। पाणिनेः सूत्रेभ्यः सर्वत्रापि यदा एकरूपेण भाषायाः अभिवृध्दिः जातः तदा विचारविनिमयः, विचाराणाम् अभिव्यक्तिः च सुलभः जातः। 

 

भारते गणितविज्ञानशास्त्रसम्बद्धः अति प्राचीनतमः ग्रन्थः 800 BC कालस्य 'शुलभसूत्राणि' इति ग्रन्थः। पञ्चमे शतमाने खगोलशास्त्रं प्रति, गणितं प्रति च भारतस्य वरदानं विस्मरितुं नैव शक्यते। आर्यभटः, भास्कराचार्यः, वराहमहिरः, ब्रह्मगुप्तः, एते सर्वेपि सङ्ख्यामानात् आरभ्य बीजगणितम् अपि सूत्ररूपेण रचितवन्तः। सर्वे वैज्ञानिकविचाराः संस्कृते काव्यरूपेण रचिताः। सङ्ख्याः अपि कटपयादिः, भूतसङ्ख्या, इत्यादिभिः, छन्दसि श्लोकरूपेण प्रदर्शिताः। तस्मात् गणितसूत्राणि सुलभतया स्मर्तुं शक्यन्ते। ईदृशी भाषा या गणिताय अपि शोभनरूपं दत्तवती सा अन्यत्र कुत्रापि लभते वा? एतत् तु केवलं संस्कृते एव लभ्यते।

 

दशमानपद्धतिः अतिक्रान्तिकारी वैमानिकोपलब्धिः प्राचीनभारतस्य। शून्यमपि प्राचीनभारतस्यैव उपलब्धिः। एतया उपलब्धया विश्वस्य विज्ञानस्य गतिरेव परिवर्तितम्। संपूर्णं विश्वं यदा सहस्रानन्तरम् सङ्ख्याः न जानाति स्म तदा अत्र भारते "एक , दश, शतं, सहस्रं,नियुतं, प्रयुतम्, अर्बुदं, वयार्बुदं, समुद्रं, मध्यं, अन्तं, परार्धं" इति नाम स्थाप्य सङ्ख्याः व्यपदिश्यन्ते स्म। (Note that परार्धं = 1027) ईदृशाः प्रचण्डबुद्धयः भारतीयाः।

 

खगोलशास्त्रे अत्यन्तप्रगतिशीलाः अस्माकं भारतीयाः। अद्यापि सूर्यचन्द्रग्रहणं सुलभतया, निर्धारितरीत्या प्राचीनपद्धत्यनुसारेण ब्रुवन्ति इत्युक्ते खगोलशास्त्रस्य वृद्धिः कथमासीत् इति चिन्तयन्तु। 

 

शस्त्रचिकत्सायाः पितामहः इति प्रसिध्दः सुशृतः, चरकः, सुशृतसम्हितां, चरकसम्हितां यत् रचितवन्तः तदपि संस्कृते एव अस्ति। अत्र शस्त्रचिकित्सायाः उपकरणानां विषयेपि विद्यते। आहत्य वैद्यकीये भारतं अन्यदेशेभ्यः अत्युन्नतस्थाने आसीत्। 

 

ततः अभियन्त्रणविषये तिरुचि, तन्जावूरु, मधुरै , खजुराहो इत्यादिषु विद्यमानान् देवालयान् अद्यतनेन आधुनिकतन्त्रज्ञानेनापि पुनः निर्मातुम् नैव शक्यते।

 

 "सुवर्णं रजतं ताम्रं त्रपु सीसकमायसम्।

 षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ॥"

 

एवम् एषां लोहानाम् उत्कर्षणं तथा उपयोगम् अपि रूपितम् अस्ति। यदा संपूर्णविश्वं लोहस्य विषये न जानाति स्म तदा भारते, संस्कृते, लोहशास्त्रमेव प्रवर्धमानमासीत्। 

 

एवं विज्ञानस्योपमा इव संस्कृतं पुनः राराजतु। वराहमिहिरभास्करादयः अस्मिन् पुण्यदेशे पुनः जन्म लप्सीरन् इति मम आशा।

 

 

 श्री शोभकृत् निज श्रावण शुक्ल पूर्णिमा